मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३५, ऋक् १५

संहिता

ये दे॒वानां॑ य॒ज्ञिया॑ य॒ज्ञिया॑नां॒ मनो॒र्यज॑त्रा अ॒मृता॑ ऋत॒ज्ञाः ।
ते नो॑ रासन्तामुरुगा॒यम॒द्य यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥

पदपाठः

ये । दे॒वाना॑म् । य॒ज्ञियाः॑ । य॒ज्ञिया॑नाम् । मनोः॑ । यज॑त्राः । अ॒मृताः॑ । ऋ॒त॒ऽज्ञाः ।
ते । नः॒ । रा॒स॒न्ता॒म् । उ॒रु॒ऽगा॒यम् । अ॒द्य । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

सायणभाष्यम्

यज्ञियानां यजनीयानां देवानामपि यज्ञियायजनीया मनोः प्रजापतेश्च यजत्रायजनीया अमृता मरणरहिता ऋतज्ञाः सत्यज्ञा ये देवाः सन्ति ते सर्वे उरुगायं बहुकीर्तिं पुत्रमद्य नोस्मभ्यं रासंतां प्रयच्छन्तु प्रसिद्धएवोत्तमः पादः ॥ १५ ॥

वेदार्थस्यप्रकाशेन तमोहार्दंनिवारयन् । पुमर्थांश्चतुरोदेयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥

इतिश्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे ऋक्संहिताभाष्ये पंचमाष्टके तृतीयोध्यायः समाप्तः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०