मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३६, ऋक् ३

संहिता

आ वात॑स्य॒ ध्रज॑तो रन्त इ॒त्या अपी॑पयन्त धे॒नवो॒ न सूदा॑ः ।
म॒हो दि॒वः सद॑ने॒ जाय॑मा॒नोऽचि॑क्रदद्वृष॒भः सस्मि॒न्नूध॑न् ॥

पदपाठः

आ । वात॑स्य । ध्रज॑तः । र॒न्ते॒ । इ॒त्याः । अपी॑पयन्त । धे॒नवः॑ । न । सूदाः॑ ।
म॒हः । दि॒वः । सद॑ने । जाय॑मानः । अचि॑क्रदत् । वृ॒ष॒भः । सस्मि॑न् । ऊध॑न् ॥

सायणभाष्यम्

ध्रजतो गच्छतो वातस्य वायोः इत्याः गतयः आरन्ते अभितोरमन्ते तथा सूदाः सूदप्रेरणे इतिधातुः क्षीरस्य प्रेरयित्र्यः धेनवो न नेतिचा- र्थे गावश्च अपीपयन्त प्यायन्ते एधन्ते । अपि च महो महतः दिवो द्योतमानस्यादित्यस्य सदने स्थानेन्तरिक्षे जायमानः उत्पद्यमानः वृषभोवर्षणशीलः पर्जन्यः सस्मिन् ऊधन् सस्मिन्नन्तरिक्षे अचिक्रदत् ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः