मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३६, ऋक् ९

संहिता

अच्छा॒यं वो॑ मरुत॒ः श्लोक॑ ए॒त्वच्छा॒ विष्णुं॑ निषिक्त॒पामवो॑भिः ।
उ॒त प्र॒जायै॑ गृण॒ते वयो॑ धुर्यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥

पदपाठः

अच्छ॑ । अ॒यम् । वः॒ । म॒रु॒तः॒ । श्लोकः॑ । ए॒तु॒ । अच्छ॑ । विष्णु॑म् । नि॒सि॒क्त॒ऽपाम् । अवः॑ऽभिः ।
उ॒त । प्र॒ऽजायै॑ । गृ॒ण॒ते । वयः॑ । धुः॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

सायणभाष्यम्

हे मरुतो वो युष्मान् अयं श्लोकः अस्मदीयमिदं स्तोत्रं अच्छैतु अभिगच्छतु निषिक्तपां निपिक्तस्य गर्भस्य रक्षितारं यद्वा चमसे निषिक्तानां सोमानां पातारं अवोभिरस्मद्विषयरक्षणैर्युक्तं विष्णुंच अस्मदीयं स्तोत्रमच्छैतु उतापिच मरुतोविष्णुश्च गृणते स्तुवते मह्यं प्रजायै पुत्ररूपां प्रजां वयोन्नंच धुः अधुः दधतु । हे मरुतः हे विष्णो यूयं स्वस्तिभिरविनाशैर्नोस्मान् सदा सर्वदा पात रक्षत ॥ ९ ॥

आवोवाहिष्ठइत्यष्टर्चं चतुर्थं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभं वैश्चदेवं अनुक्रम्यतेच-आवोष्टाविति । विनियोगोलैंगिकः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः