मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३७, ऋक् १

संहिता

आ वो॒ वाहि॑ष्ठो वहतु स्त॒वध्यै॒ रथो॑ वाजा ऋभुक्षणो॒ अमृ॑क्तः ।
अ॒भि त्रि॑पृ॒ष्ठैः सव॑नेषु॒ सोमै॒र्मदे॑ सुशिप्रा म॒हभि॑ः पृणध्वम् ॥

पदपाठः

आ । वः॒ । वाहि॑ष्ठः । व॒ह॒तु॒ । स्त॒वध्यै॑ । रथः॑ । वा॒जाः॒ । ऋ॒भु॒क्ष॒णः॒ । अमृ॑क्तः ।
अ॒भि । त्रि॑ऽपृ॒ष्ठैः । सव॑नेषु । सोमैः॑ । मदे॑ । सु॒ऽशि॒प्राः॒ । म॒हऽभिः॑ । पृ॒ण॒ध्व॒म् ॥

सायणभाष्यम्

अनेन द्वृचेन ऋभवः स्तूयन्ते ऋभुक्षणः विस्तीर्णस्य तेजसोनिवासभूता हे वाजाः ऋभवः वाहिष्ठोवोढृतमः स्तवध्यै स्तोतुमर्ह अमृक्तः केनाप्यहिंसितः युष्मदीयोरथः वो युष्मान् आवहतु आसमन्तात् अस्मदीयं यज्ञं प्रापयतु हेसुशिप्राः शोभनहनवः यूयं तेन रथेनागत्य सव- नेष्वस्मदीययज्ञेषु मदे मदनिमित्ते त्रिपृष्ठैः क्षीरदधिसक्तुमिश्रैः महभिर्महद्भिः सोमैः अभि पृणध्वं युष्मदीयं जठरमभिपूरयत सरथः युष्मानावहत्विति पूर्वेणान्वयः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः