अ॒भि यं दे॒वी निरृ॑तिश्चि॒दीशे॒ नक्ष॑न्त॒ इन्द्रं॑ श॒रदः॑ सु॒पृक्ष॑ः ।
उप॑ त्रिब॒न्धुर्ज॒रद॑ष्टिमे॒त्यस्व॑वेशं॒ यं कृ॒णव॑न्त॒ मर्ता॑ः ॥
अ॒भि । यम् । दे॒वी । निःऽऋ॑तिः । चि॒त् । ईशे॑ । नक्ष॑न्ते । इन्द्र॑म् । श॒रदः॑ । सु॒ऽपृक्षः॑ ।
उप॑ । त्रि॒ऽब॒न्धुः । ज॒रत्ऽअ॑ष्टिम् । ए॒ति॒ । अस्व॑वेशम् । यम् । कृ॒णव॑न्त । मर्ताः॑ ॥
देवी द्योतमाना निरृतिश्चित् भूमिरपि ईशे कृत्यार्थे केन् प्रत्ययः ईशितव्या स्वभूतासती यमिन्द्रं अभिनक्षते व्याप्नोति सुपृक्षः शोभनान्नैरु- पेताः शरदः संवत्सराश्च यमिन्द्रं नक्षन्ते व्याप्नुवन्ति मर्ताः मरणधर्माणः स्तोतारोवयंयमिन्द्रं अस्वदेशं स्वकीयेस्थाने अनुपविशन्तं कृणवन्त कुर्वंति त्रिबन्धुः त्रयाणां लोकानां बन्धकोविधारकः सइन्द्रः जरदष्टिं जरज्जीर्णमष्टिरशनं यस्यबलस्य हेतुभूतं तद्बलं उपैति उप- गच्छति ॥ ७ ॥