मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३८, ऋक् ३

संहिता

अपि॑ ष्टु॒तः स॑वि॒ता दे॒वो अ॑स्तु॒ यमा चि॒द्विश्वे॒ वस॑वो गृ॒णन्ति॑ ।
स न॒ः स्तोमा॑न्नम॒स्य१॒॑श्चनो॑ धा॒द्विश्वे॑भिः पातु पा॒युभि॒र्नि सू॒रीन् ॥

पदपाठः

अपि॑ । स्तु॒तः । स॒वि॒ता । दे॒वः । अ॒स्तु॒ । यम् । आ । चि॒त् । विश्वे॑ । वस॑वः । गृ॒णन्ति॑ ।
सः । नः॒ । स्तोमा॑न् । न॒म॒स्यः॑ । चनः॑ । धा॒त् । विश्वे॑भिः । पा॒तु॒ । पा॒युऽभिः॑ । नि । सू॒रीन् ॥

सायणभाष्यम्

अपिच सवितादेवः अस्माभिः स्तुतोस्तु अस्मदीयाः स्तुतीः शृणोत्वित्यर्थः विश्वे वसवश्चित् सर्वेदेवा अपि यंसवितारं आगृणन्ति अभि- ष्टुवन्ति नमस्यः सर्वैर्नमस्करणीयः सदेवः स्तोमान् नोस्मदीयानि स्तोत्राणिच नः अन्नं धात् दधातु अन्नफलानिकरोतु विश्वेभिर्विश्वैः सर्वैः पायुभिः पालनैः सूरीन् स्तोतॄन् अस्मान् निपातु नितरां पालयतु ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः