मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३८, ऋक् ४

संहिता

अ॒भि यं दे॒व्यदि॑तिर्गृ॒णाति॑ स॒वं दे॒वस्य॑ सवि॒तुर्जु॑षा॒णा ।
अ॒भि स॒म्राजो॒ वरु॑णो गृणन्त्य॒भि मि॒त्रासो॑ अर्य॒मा स॒जोषा॑ः ॥

पदपाठः

अ॒भि । यम् । दे॒वी । अदि॑तिः । गृ॒णाति॑ । स॒वम् । दे॒वस्य॑ । स॒वि॒तुः । जु॒षा॒णा ।
अ॒भि । स॒म्ऽराजः॑ । वरु॑णः । गृ॒ण॒न्ति॒ । अ॒भि । मि॒त्रासः॑ । अ॒र्य॒मा । स॒ऽजोषाः॑ ॥

सायणभाष्यम्

देवी द्योतमाना अदितिरदीना देवमातायंसवितारं अभिगृणाति अभिष्टौति कीदृशी सवितुर्देवस्यैव सवं प्रसवमनुज्ञां जुषाणा सेवमाना सम्राजः सम्यग्राजमानाः वरुणः उपलक्षणमेतत् वरुणादयोदेवाः यंसवितारमभिगृणन्ति अभिष्टुवन्ति मित्रासोमित्रादयश्च सजोषाः समानप्रीतिः अर्यमा एतत्संज्ञकोदेवश्च यमभिगृणन्ति सनः स्तोमांश्चनोधादिति पूर्वयर्चासंबन्धः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः