मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३८, ऋक् ५

संहिता

अ॒भि ये मि॒थो व॒नुष॒ः सप॑न्ते रा॒तिं दि॒वो रा॑ति॒षाचः॑ पृथि॒व्याः ।
अहि॑र्बु॒ध्न्य॑ उ॒त नः॑ शृणोतु॒ वरू॒त्र्येक॑धेनुभि॒र्नि पा॑तु ॥

पदपाठः

अ॒भि । ये । मि॒थः । व॒नुषः॑ । सप॑न्ते । रा॒तिम् । दि॒वः । रा॒ति॒ऽसाचः॑ । पृ॒थि॒व्याः ।
अहिः॑ । बु॒ध्न्यः॑ । उ॒त । नः॒ । शृ॒णो॒तु॒ । वरू॑त्री । एक॑धेनुऽभिः । नि । पा॒तु॒ ॥

सायणभाष्यम्

रातिषाचोदानसेविनः वनुषः संभक्तारः ये यजमानाः मिथः परस्परं संहताभूत्वा सवितारं अभिलक्ष्य सपन्ते परिचरन्ति कीदृशं देवोद्यु- लोकस्य पृथिव्याभूमेश्च रातिं मित्रभूतं उतापिच अहिर्बुध्न्यः बुन्धेन्तरिक्षेभवोबुध्यः एतीत्यहिः एतत्पदद्वयाभिधेयमध्यमस्थानोग्निः अहि- र्बुध्न्यइत्युच्यते सवितुर्मित्रभूतः सोपि तेषां नोस्माकं सवितृविषयं स्तोत्रं शृणोतु तथा वरूत्रीवाग्देवी च सवितृसहितासती एकधेनुभिर्मु- ख्याभिर्गोभिः निपातु नितरामस्मान् पालयत ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः