मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३८, ऋक् ६

संहिता

अनु॒ तन्नो॒ जास्पति॑र्मंसीष्ट॒ रत्नं॑ दे॒वस्य॑ सवि॒तुरि॑या॒नः ।
भग॑मु॒ग्रोऽव॑से॒ जोह॑वीति॒ भग॒मनु॑ग्रो॒ अध॑ याति॒ रत्न॑म् ॥

पदपाठः

अनु॑ । तत् । नः॒ । जाःऽपतिः॑ । मं॒सी॒ष्ट॒ । रत्न॑म् । दे॒वस्य॑ । स॒वि॒तुः । इ॒या॒नः ।
भग॑म् । उ॒ग्रः । अव॑से । जोह॑वीति । भग॑म् । अनु॑ग्रः । अध॑ । या॒ति॒ । रत्न॑म् ॥

सायणभाष्यम्

इयानः अस्माभिर्याच्यमानः जास्पतिः प्रजानां पालकः सवितादेवः सवितुर्देवस्य स्वस्य संबंधिरत्नं रमणीयं तत् प्रसिद्धं धनं नोस्माकं अनुमंसीष्ट अनुमन्यतां उग्रओजस्वी स्तोता भगं भजनीयं सवितारं भगसंज्ञंकं देवं वा अवसे नोस्माकं रक्षणाय जोहवीति भृशं ह्वयति अधापिच अनुग्रः असमर्थः स्तोता भगमेतत्संज्ञकं सवितारंवा रत्नं रमणीयं तत्प्रसिद्धं धनं याति याचते ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः