मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३८, ऋक् ७

संहिता

शं नो॑ भवन्तु वा॒जिनो॒ हवे॑षु दे॒वता॑ता मि॒तद्र॑वः स्व॒र्काः ।
ज॒म्भय॒न्तोऽहिं॒ वृकं॒ रक्षां॑सि॒ सने॑म्य॒स्मद्यु॑यव॒न्नमी॑वाः ॥

पदपाठः

शम् । नः॒ । भ॒व॒न्तु॒ । वा॒जिनः॑ । हवे॑षु । दे॒वऽता॑ता । मि॒तऽद्र॑वः । सु॒ऽअ॒र्काः ।
ज॒म्भय॑न्तः । अहि॑म् । वृक॑म् । रक्षां॑सि । सने॑मि । अ॒स्मत् । यु॒य॒व॒न् । अमी॑वाः ॥

सायणभाष्यम्

देवताता देवतातौ यज्ञे हवेष्वस्मदीयेषु स्तोत्रेषु मितद्रवः मितद्रवणाः मितमार्गाः स्वर्काः शोभनान्नाः वाजिनः एतदभिधायकादेवाः नोस्माकं शं सुखाय भवन्तु अपिच अहिं आगत्य हन्तारं वृकं वसूनामादातारं चोरमितिशेषः रक्षांसिच जंभयन्तोहिंसन्तोवाजिनोदेवाः सनेमि पुराणनामैतत् पुरातनाः अमीवाः रोगान् अस्मदस्मत्तः युयवन् पृथक्कुर्वन्तु ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः