मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ४०, ऋक् १

संहिता

ओ श्रु॒ष्टिर्वि॑द॒थ्या॒३॒॑ समे॑तु॒ प्रति॒ स्तोमं॑ दधीमहि तु॒राणा॑म् ।
यद॒द्य दे॒वः स॑वि॒ता सु॒वाति॒ स्यामा॑स्य र॒त्निनो॑ विभा॒गे ॥

पदपाठः

ओ इति॑ । श्रु॒ष्टिः । वि॒द॒थ्या॑ । सम् । ए॒तु॒ । प्रति॑ । स्तोम॑म् । द॒धी॒म॒हि॒ । तु॒राणा॑म् ।
यत् । अ॒द्य । दे॒वः । स॒वि॒ता । सु॒वाति॑ । स्याम॑ । अ॒स्य॒ । र॒त्निनः॑ । वि॒ऽभा॒गे ॥

सायणभाष्यम्

हे देवाः विदथ्या विदथेन त्वदीयेन चित्तेन संपाद्याश्रुष्टिः सुखं अस्मान् ओ आसमेतु आगच्छतु अथवा श्रुष्टिर्वेगवती विदथ्याविदथे यज्ञे क्रियमाणा अस्मदीयास्तुतिः युष्मानागच्छतु वयं तुराणां वेगवतां देवानां स्तोमं स्तोत्रं प्रति दधीमहि कुर्वीमहि अद्येदानीं सवितादेवः यद्धनं सुवाति अस्मभ्यं प्रेरयेत् रत्निनोरमणीयधनवतः अस्य सवितुस्तस्य धनस्य विभागे दाने स्याम वयं भवेम ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः