मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ४०, ऋक् ४

संहिता

अ॒यं हि ने॒ता वरु॑ण ऋ॒तस्य॑ मि॒त्रो राजा॑नो अर्य॒मापो॒ धुः ।
सु॒हवा॑ दे॒व्यदि॑तिरन॒र्वा ते नो॒ अंहो॒ अति॑ पर्ष॒न्नरि॑ष्टान् ॥

पदपाठः

अ॒यम् । हि । ने॒ता । वरु॑णः । ऋ॒तस्य॑ । मि॒त्रः । राजा॑नः । अ॒र्य॒मा । अपः॑ । धुरिति॒ धुः ।
सु॒ऽहवा॑ । दे॒वी । अदि॑तिः । अ॒न॒र्वा । ते । नः॒ । अंहः॑ । अति॑ । प॒र्ष॒न् । अरि॑ष्टान् ॥

सायणभाष्यम्

ऋतस्य यज्ञस्य सत्यस्यवा नेता प्रापयिता अयंहि अयंखलु वरुणश्च मित्रश्च अर्यमा च एते राजानः समर्थादेवाः अपः अस्मदीयं यज्ञादि- लक्षणं कर्म धुः अधुः दधति अनर्वा केनाप्यप्रतिगता देवी द्योतमाना अदितिरदीना देवमाता सुहवा शोभनाह्वाना भवति ते वरु- णादयोदेवाः अरिष्टानबाधितान् सतोनोस्मान् अंहोदुरितं अतिपर्षन् अतिपारयन्तु ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः