मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ४०, ऋक् ५

संहिता

अ॒स्य दे॒वस्य॑ मी॒ळ्हुषो॑ व॒या विष्णो॑रे॒षस्य॑ प्रभृ॒थे ह॒विर्भि॑ः ।
वि॒दे हि रु॒द्रो रु॒द्रियं॑ महि॒त्वं या॑सि॒ष्टं व॒र्तिर॑श्विना॒विरा॑वत् ॥

पदपाठः

अ॒स्य । दे॒वस्य॑ । मी॒ळ्हुषः॑ । व॒याः । विष्णोः॑ । ए॒षस्य॑ । प्र॒ऽभृ॒थे । ह॒विःऽभिः॑ ।
वि॒दे । हि । रु॒द्रः । रु॒द्रिय॑म् । म॒हि॒ऽत्वम् । या॒सि॒ष्टम् । व॒र्तिः । अ॒श्वि॒नौ॒ । इरा॑ऽवत् ॥

सायणभाष्यम्

प्रभृथे हविर्भिर्हवीरूपैरन्नैरेषस्य प्रापणीयस्य मीह्ळुषः कामानां सेक्तुः विष्णोः सर्वदेवात्मकस्य अस्य देवस्य विष्णुः सर्वादेवताइतिश्रुतेः । अन्येदेवाः वयाः शाखाइव भवन्ति रुद्रोदेवः रुद्रियं रुद्रसंबन्धिसुखं महित्वं महत्त्वं च विदेहि अस्मान् प्रापयति खलु अपिच हे अश्विनौ देवौ युवां इरावत् हविर्लक्षणान्नयुक्तं वर्तिरस्मदीयं गृहं यासिष्टं अयासिष्टं आगच्छतं ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः