मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ४०, ऋक् ७

संहिता

नू रोद॑सी अ॒भिष्टु॑ते॒ वसि॑ष्ठैरृ॒तावा॑नो॒ वरु॑णो मि॒त्रो अ॒ग्निः ।
यच्छ॑न्तु च॒न्द्रा उ॑प॒मं नो॑ अ॒र्कं यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥

पदपाठः

नु । रोद॑सी॒ इति॑ । अ॒भिस्तु॑ते॒ इत्य॒भिऽस्तु॑ते । वसि॑ष्ठैः । ऋ॒तऽवा॑नः । वरु॑णः । मि॒त्रः । अ॒ग्निः ।
यच्छ॑न्तु । च॒न्द्राः । उ॒प॒ऽमम् । नः॒ । अ॒र्कम् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

सायणभाष्यम्

पूर्वंव्याख्यातेयं अक्षरार्थस्तु द्यावापृथिव्यौ वरुणादयोदेवाश्च वसिष्ठैरस्माभिरभिष्टुताभवन्ति एवंभूता आह्लादकादेवाः सर्वोत्कृष्टमन्नं अस्मभ्यं ददतु अस्मिन् सूक्ते प्रतिपादिताः सर्वे देवा यूयं कल्याणैरस्मान् सर्वदा पालयत ॥ ७ ॥

प्रातरग्निमिति सप्तर्चमष्टमं सूक्तं अत्रानुक्रमणिका-प्रातर्भागं जगत्याद्यालिंगोक्तदेवतांत्योषस्येति । वसिष्ठऋषिः आद्याजगती शिष्टा- स्त्रिष्टुभ आद्याअग्नीन्द्रादिदेवत्या द्वितीयाद्याः पंचभगदेवत्याः सप्तम्युषोदेवत्या । अत्रकेचिदाहुः-निवेष्टुकामोरोगार्तो भगसूक्तंजपेत्सदा । निवेशंविशतिक्षिप्रं रोगैश्चपरिमुच्यतइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः