मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ४१, ऋक् २

संहिता

प्रा॒त॒र्जितं॒ भग॑मु॒ग्रं हु॑वेम व॒यं पु॒त्रमदि॑ते॒र्यो वि॑ध॒र्ता ।
आ॒ध्रश्चि॒द्यं मन्य॑मानस्तु॒रश्चि॒द्राजा॑ चि॒द्यं भगं॑ भ॒क्षीत्याह॑ ॥

पदपाठः

प्रा॒तः॒ऽजित॑म् । भग॑म् । उ॒ग्रम् । हु॒वे॒म॒ । व॒यम् । पु॒त्रम् । अदि॑तेः । यः । वि॒ऽध॒र्ता ।
आ॒ध्रः । चि॒त् । यम् । मन्य॑मानः । तु॒रः । चि॒त् । राजा॑ । चि॒त् । यम् । भग॑म् । भ॒क्षि॒ । इति॑ । आह॑ ॥

सायणभाष्यम्

योभगोदेवः विधर्ता विश्वस्यजगतोधारकः जितं जयशीलं उग्रं उद्गूर्णं अदितेः पुत्रं भगं देवं प्रातःकालएव वयं हुवेम आह्वयामः । आध्रश्चित् दरिद्रोपि स्तोता यं भगं देवं मन्यमानः स्तुवन् भगं भजनीयं धनं भक्षि भज विभज मह्यं देहिइत्याह ब्रवीति तुरश्चित् तुरतिर्ग- तिकर्मा प्राप्तधनोपि राजाचित् समर्थोपि जनः यं भगं देवं भजनीयं धनं मह्यं भक्षि देहीत्याह तं भगं प्रातरेव वयं हुवेमेति संबन्धः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः