मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ४६, ऋक् २

संहिता

स हि क्षये॑ण॒ क्षम्य॑स्य॒ जन्म॑न॒ः साम्रा॑ज्येन दि॒व्यस्य॒ चेत॑ति ।
अव॒न्नव॑न्ती॒रुप॑ नो॒ दुर॑श्चरानमी॒वो रु॑द्र॒ जासु॑ नो भव ॥

पदपाठः

सः । हि । क्षये॑ण । क्षम्य॑स्य । जन्म॑नः । साम्ऽरा॑ज्येन । दि॒व्यस्य॑ । चेत॑ति ।
अव॑न् । अव॑न्तीः । उप॑ । नः॒ । दुरः॑ । च॒र॒ । अ॒न॒मी॒वः । रु॒द्र॒ । जासु॑ । नः॒ । भ॒व॒ ॥

सायणभाष्यम्

सहि सखलु रुद्रोदेवः क्षम्यस्य क्षमायां पृथिव्यां भवः तस्य जन्मनोजनस्य क्षयेणैश्वर्येण चेतति प्रज्ञायते दिव्यस्य जनस्यच साम्राज्येनैश्व- र्येण प्रज्ञायते । शेषः प्रत्यक्षकृतः हे रुद्रदेव त्वंच अवन्तीः त्वां स्तोत्रैस्तर्पयन्तीः नोस्मदीयाः प्रजाः अवन् पालयन् दुरोदुर्याणि अस्मदी- यानि गृहाणि उपचर उपगच्छ किंच त्वं नोस्मदीयासु प्रजासु अनमीवः अमीवारोगाः तानकुर्वन् भव ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३