मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ४७, ऋक् १

संहिता

आपो॒ यं वः॑ प्रथ॒मं दे॑व॒यन्त॑ इन्द्र॒पान॑मू॒र्मिमकृ॑ण्वते॒ळः ।
तं वो॑ व॒यं शुचि॑मरि॒प्रम॒द्य घृ॑त॒प्रुषं॒ मधु॑मन्तं वनेम ॥

पदपाठः

आपः॑ । यम् । वः॒ । प्र॒थ॒मम् । दे॒व॒ऽयन्तः॑ । इ॒न्द्र॒ऽपान॑म् । ऊ॒र्मिम् । अकृ॑ण्वत । इ॒ळः ।
तम् । वः॒ । व॒यम् । शुचि॑म् । अ॒रि॒प्रम् । अ॒द्य । घृ॒त॒ऽप्रुष॑म् । मधु॑ऽमन्तम् । व॒ने॒म॒ ॥

सायणभाष्यम्

देवयन्तोदेवानिच्छन्तोध्वर्यवः हे आपः हे अब्देवताः वोयुष्माकं कार्यभूतं इन्द्रपानं इंद्रेण पातव्यं इळः इळाया भूम्याः संभूतं यमूर्मिं यं रसं प्रथमं पुरा अकृण्वत अभि अभिषवणवचनादिभिः समस्कुर्वत अद्येदानीं वयमपि वोयुष्मदीयं तमूर्मिं वनेम । संभजेमहि कीदृशं शुचिं शुद्धं अरिप्रं पापरहितं घृतप्रुषं वृष्टिलक्षणमुदकं सिंचंतं मधुमन्तं मधुररसोपेतं एवंभूतं तं वनेमेति संबन्धः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४