मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ४७, ऋक् २

संहिता

तमू॒र्मिमा॑पो॒ मधु॑मत्तमं वो॒ऽपां नपा॑दवत्वाशु॒हेमा॑ ।
यस्मि॒न्निन्द्रो॒ वसु॑भिर्मा॒दया॑ते॒ तम॑श्याम देव॒यन्तो॑ वो अ॒द्य ॥

पदपाठः

तम् । ऊ॒र्मिम् । आ॒पः॒ । मधु॑मत्ऽतमम् । वः॒ । अ॒पाम् । नपा॑त् । अ॒व॒तु॒ । आ॒शु॒ऽहेमा॑ ।
यस्मि॑न् । इन्द्रः॑ । वसु॑ऽभिः । मा॒दया॑ते । तम् । अ॒श्या॒म॒ । दे॒व॒ऽयन्तः॑ । वः॒ । अ॒द्य ॥

सायणभाष्यम्

हे आपः एतत्संज्ञकादेवाः वोयुष्मदीयं मधुमत्तमं रसवत्तमं तमूर्मिं प्रसिद्धं सोमाख्यं रसं आशुहेमा शीघ्रगतिः अपांनपात् एतदाख्योदेवः अवतु पालयतु इन्द्रः यस्मिन्नुर्मौ वसुभिर्वासकैर्देवैः सह मादयाते माद्येतु अद्यअस्मिन् दिने देवयन्तोदेवकामावयं वोयुष्मदीयं तमूर्मिं अश्याम प्राप्नुयाम ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४