मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ४८, ऋक् २

संहिता

ऋ॒भुरृ॒भुभि॑र॒भि वः॑ स्याम॒ विभ्वो॑ वि॒भुभि॒ः शव॑सा॒ शवां॑सि ।
वाजो॑ अ॒स्माँ अ॑वतु॒ वाज॑साता॒विन्द्रे॑ण यु॒जा त॑रुषेम वृ॒त्रम् ॥

पदपाठः

ऋ॒भुः । ऋ॒भुऽभिः॑ । अ॒भि । वः॒ । स्या॒म॒ । विऽभ्वः॑ । वि॒भुऽभिः॑ । शव॑सा । शवां॑सि ।
वाजः॑ । अ॒स्मान् । अ॒व॒तु॒ । वाज॑ऽसातौ । इन्द्रे॑ण । यु॒जा । त॒रु॒षे॒म॒ । वृ॒त्रम् ॥

सायणभाष्यम्

हे ऋभवः ऋभुभिःयुष्माभिः वयं ऋभुः उरुभवन्तीत्यृभवः सन्तः विभुभिर्युष्माभिः विभ्वोविभवश्च सन्तः शवांसि शत्रूणां बलानि वः शवसा युष्मदीयेन बलेन अभिस्याम अभिभवेम तथा वाजसातौ संग्रामे वाजः एतत्संज्ञकऋभुः अस्मानवतु पालयतु अपिच युजा सहायभूतेनेन्द्रेण वृत्रं शत्रुं वयं तरुषेम हनाम प्रायेण ऋभवोपीन्द्रेणसहस्तूयन्ते इति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५