मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ४८, ऋक् ३

संहिता

ते चि॒द्धि पू॒र्वीर॒भि सन्ति॑ शा॒सा विश्वाँ॑ अ॒र्य उ॑प॒रता॑ति वन्वन् ।
इन्द्रो॒ विभ्वाँ॑ ऋभु॒क्षा वाजो॑ अ॒र्यः शत्रो॑र्मिथ॒त्या कृ॑णव॒न्वि नृ॒म्णम् ॥

पदपाठः

ते । चि॒त् । हि । पू॒र्वीः । अ॒भि । सन्ति॑ । शा॒सा । विश्वा॑न् । अ॒र्यः । उ॒प॒रऽता॑ति । व॒न्व॒न् ।
इन्द्रः॑ । विऽभ्वा॑ । ऋ॒भु॒क्षाः । वाजः॑ । अ॒र्यः । शत्रोः॑ । मि॒थ॒त्या । कृ॒ण॒व॒न् । वि । नृ॒म्णम् ॥

सायणभाष्यम्

तेतादृशा इन्द्रऋभवश्च पूर्वीर्बह्वीः अस्मच्छत्रुसेनाः शासा शासनेन स्वकीयया आज्ञया यद्वा विशस्यते हिंस्यतेनेनेति शासशब्दआयुध- वाची तेन अभिसन्ति अभिभवन्ति चिद्धीतीमौ पूरणौ किंच उपरताति सप्तम्यालुक् उपरैरुपलैः पाषाणसदृशैरायुधैः स्तायते विस्तार्य- इत्युपरताति युद्धं तस्मिन् विश्वान् समस्तान् अर्यअरीन् शत्रून् वन्वन् हिंसन्ति विभ्वाऋभुक्षा वाजः एतत्संज्ञकाऋभवश्चेन्द्रश्च अर्यः शत्रूणामभिगन्तारः सन्तः शत्रोः संबन्धिनृम्णं बलं मिथत्या मिथतेरिदं रूपं मिथतिर्हिसा तया विकृण्वन् विकुर्वन्तु विनाशयन्त्वित्यर्थः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५