मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ५१, ऋक् १

संहिता

आ॒दि॒त्याना॒मव॑सा॒ नूत॑नेन सक्षी॒महि॒ शर्म॑णा॒ शंत॑मेन ।
अ॒ना॒गा॒स्त्वे अ॑दिति॒त्वे तु॒रास॑ इ॒मं य॒ज्ञं द॑धतु॒ श्रोष॑माणाः ॥

पदपाठः

आ॒दि॒त्याना॑म् । अव॑सा । नूत॑नेन । स॒क्षी॒महि॑ । शर्म॑णा । शम्ऽत॑मेन ।
अ॒ना॒गाःऽत्वे । अ॒दि॒ति॒ऽत्वे । तु॒रासः॑ । इ॒मम् । य॒ज्ञम् । द॒ध॒तु॒ । श्रोष॑माणाः ॥

सायणभाष्यम्

आदित्यानां अदितेःपुत्राणां एतत्संज्ञकानां देवानां अवसा रक्षणेन तद्धेतुभूतेनेत्यर्थः नूतनेनाद्यतनेन शंतमेन शंसुखं अतिशयेन तत्करणेन शर्मणा शर्मेति गृहनामैतत् गृहेण सक्षीमहि वयं संगच्छेमहि तुरासः तुराः त्वरिताआदित्याः श्रोषमाणाः अस्मदीयानि स्तोत्राणि शृण्व- न्तः यज्ञं यष्टारमिमं जनं अनागास्त्वे अनपराधत्वेच अदितित्वे अदीनत्वेच दधतु स्थापयन्तु ॥ १ ॥ आदित्यासोअदितिरित्यादित्यग्रहस्य याज्या सूत्रितं च-आदित्यासोअदितिर्मादयन्तामिति नैतंग्रहमीक्षेत हूयमानमिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८