मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ५१, ऋक् २

संहिता

आ॒दि॒त्यासो॒ अदि॑तिर्मादयन्तां मि॒त्रो अ॑र्य॒मा वरु॑णो॒ रजि॑ष्ठाः ।
अ॒स्माकं॑ सन्तु॒ भुव॑नस्य गो॒पाः पिब॑न्तु॒ सोम॒मव॑से नो अ॒द्य ॥

पदपाठः

आ॒दि॒त्यासः॑ । अदि॑तिः । मा॒द॒य॒न्ता॒म् । मि॒त्रः । अ॒र्य॒मा । वरु॑णः । रजि॑ष्ठाः ।
अ॒स्माक॑म् । स॒न्तु॒ । भुव॑नस्य । गो॒पाः । पिब॑न्तु । सोम॑म् । अव॑से । नः॒ । अ॒द्य ॥

सायणभाष्यम्

आदित्यासः आदित्यादेवाः अदितिस्तेषांमाताच यद्वा अदितिरिति देवविशेषणं अदितिः अदितयः अदीनाः रजिष्ठाः अतिशयेन ऋजवः मित्रः अर्यमा वरुणश्च एतत्संज्ञकाः मादयन्तां तृप्ताः सन्तु भुवनस्य सर्वस्य जगतः गोपाः रक्षकाः एवंभूतादेवाः अस्माकं सन्तु अस्माक- मेव रक्षकाभवंत्वित्यर्थः अद्यास्मिन् दिने नोस्माकमवसे रक्षणाय सोममस्माभिरभिषुतं पिबन्तु ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८