मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ५५, ऋक् १

संहिता

अ॒मी॒व॒हा वा॑स्तोष्पते॒ विश्वा॑ रू॒पाण्या॑वि॒शन् ।
सखा॑ सु॒शेव॑ एधि नः ॥

पदपाठः

अ॒मी॒व॒ऽहा । वा॒स्तोः॒ । प॒ते॒ । विश्वा॑ । रू॒पाणि॑ । आ॒ऽवि॒शन् ।
सखा॑ । सु॒ऽशेवः॑ । ए॒धि॒ । नः॒ ॥

सायणभाष्यम्

हे वास्तोष्पते गृहस्यपालक एतत्संज्ञकदेव अमीवहा अमीवानां रोगाणां नाशकस्त्वं विश्वा विश्वानि बहूनि रूपाणि आविशन् प्रविशन् यद्यद्रूपं कामयन्ते तत्तदेवाविशन्तीति यास्कः । नोस्माकं सखा मित्रभूतः सुशेवः सुष्ठु सुखकरः एधि भव ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२