मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ५५, ऋक् ५

संहिता

सस्तु॑ मा॒ता सस्तु॑ पि॒ता सस्तु॒ श्वा सस्तु॑ वि॒श्पति॑ः ।
स॒सन्तु॒ सर्वे॑ ज्ञा॒तय॒ः सस्त्व॒यम॒भितो॒ जनः॑ ॥

पदपाठः

सस्तु॑ । मा॒ता । सस्तु॑ । पि॒ता । सस्तु॑ । श्वा । सस्तु॑ । वि॒श्पतिः॑ ।
स॒सन्तु॑ । सर्वे॑ । ज्ञा॒तयः॑ । सस्तु॑ । अ॒यम् । अ॒भितः॑ । जनः॑ ॥

सायणभाष्यम्

हे सारमेय माता त्वदीया जननी सस्तु स्वपतु पिताच सस्तु श्वा सारमेयोभवान् सस्तु विश्पतिर्जामाता यद्वा विशां जनानां पालको- गृही सस्तु सर्वेज्ञातयोबंधवोपि ससंतु स्वपन्तु अभितः परितःस्थितः अयमपि सर्वोजनः सस्तु स्वपतु ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२