मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ५६, ऋक् ३

संहिता

अ॒भि स्व॒पूभि॑र्मि॒थो व॑पन्त॒ वात॑स्वनसः श्ये॒ना अ॑स्पृध्रन् ॥

पदपाठः

अ॒भि । स्व॒ऽपूभिः॑ । मि॒थः । व॒प॒न्त॒ । वात॑ऽस्वनसः । श्ये॒नाः । अ॒स्पृ॒ध्र॒न् ॥

सायणभाष्यम्

मरुतः स्वपूभिः स्वकीयैः पवनैः संचरणैः स्वयमेव संचरन्तः मिथः परस्परं अभिवपत संगच्छन्ते अपिच वातस्वनसः वायुवत्स्वनन्तः शब्दायमानाः श्येनाः श्यैङ्गतावितिधातोरूपं गमनशीलाः यद्वा श्येनाइति लुप्तोपममेतत् श्येनाः पक्षिणः तद्वद्गच्छन्तः अस्पृध्रन् परस्परं रूपसौंदर्यादिभिः स्पर्धन्ते ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३