मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ५६, ऋक् १३

संहिता

अंसे॒ष्वा म॑रुतः खा॒दयो॑ वो॒ वक्ष॑स्सु रु॒क्मा उ॑पशिश्रिया॒णाः ।
वि वि॒द्युतो॒ न वृ॒ष्टिभी॑ रुचा॒ना अनु॑ स्व॒धामायु॑धै॒र्यच्छ॑मानाः ॥

पदपाठः

अंसे॑षु । आ । म॒रु॒तः॒ । खा॒दयः॑ । वः॒ । वक्षः॑ऽसु । रु॒क्माः । उ॒प॒ऽशि॒श्रि॒या॒णाः ।
वि । वि॒ऽद्युतः॑ । न । वृ॒ष्टिऽभिः॑ । रु॒चा॒नाः । अनु॑ । स्व॒धाम् । आयु॑धैः । यच्छ॑मानाः ॥

सायणभाष्यम्

हे मरुतः अंसेषु युष्मदीयेषु स्कंधप्रदेशेषु खादयोलंकारविशेषाः आमुक्ताभवन्तीतिशेषः सुरुक्माः सुष्ठु रोचमानाः हाराः वोयुष्मदीयं वक्षः उरःप्रदेशं उपशिश्रियाणाः आश्रिताभवन्ति किंच हे मरुतः वृष्टिभिः वर्षैः सार्धं विद्युतोन तडितोयथा रुचानाः रोचमानाः तादृग्भूतायूयं आयुधैर्मेघताडनैः स्वधामुदकं अनुयच्छमानाः प्रयच्छन्तोविचरथेति शेषः ॥ १३ ॥ गृहमेधीये प्रबुध्र्यावइति प्रधानस्ययाज्या सूत्रितंच-प्रबुध्र्यावईरतेमहांसीति पुष्टिमन्तौ विराजौ संयाज्येइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४