मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ५६, ऋक् १६

संहिता

अत्या॑सो॒ न ये म॒रुत॒ः स्वञ्चो॑ यक्ष॒दृशो॒ न शु॒भय॑न्त॒ मर्या॑ः ।
ते ह॑र्म्ये॒ष्ठाः शिश॑वो॒ न शु॒भ्रा व॒त्सासो॒ न प्र॑क्री॒ळिनः॑ पयो॒धाः ॥

पदपाठः

अत्या॑सः । न । ये । म॒रुतः॑ । सु॒ऽअञ्चः॑ । य॒क्ष॒ऽदृशः॑ । न । शु॒भय॑न्त । मर्याः॑ ।
ते । ह॒र्म्ये॒ऽस्थाः । शिश॑वः । न । शु॒भ्राः । व॒त्सासः॑ । न । प्र॒ऽक्री॒ळिनः॑ । प॒यः॒ऽधाः ॥

सायणभाष्यम्

अत्यासोन अत्याः सततगामिनोश्वाइव स्वंचः सुष्ठु गच्छन्तो ये मरुतः यक्षदृशोन मर्याः यक्षस्योत्सवस्य द्रष्टारोमनुष्याइव शुभयन्त शोभन्ते हर्म्येष्ठाः हर्म्येस्थिताः शिशवोन कुमाराइव शुभ्राः शोभमाना वत्सासोन वत्साइव प्रक्रीळिनः प्रक्रीडिनः प्रकर्षेण क्रीडमानाः ते मरुतः पयोधाः पयसउदकस्य धारयितारोदातारोवा भवन्ति ॥ १६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५