मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ५६, ऋक् २१

संहिता

मा वो॑ दा॒त्रान्म॑रुतो॒ निर॑राम॒ मा प॒श्चाद्द॑घ्म रथ्यो विभा॒गे ।
आ नः॑ स्पा॒र्हे भ॑जतना वस॒व्ये॒३॒॑ यदीं॑ सुजा॒तं वृ॑षणो वो॒ अस्ति॑ ॥

पदपाठः

मा । वः॒ । दा॒त्रात् । म॒रु॒तः॒ । निः । अ॒रा॒म॒ । मा । प॒श्चात् । द॒घ्म॒ । र॒थ्यः॒ । वि॒ऽभा॒गे ।
आ । नः॒ । स्पा॒र्हे । भ॒ज॒त॒न॒ । व॒स॒व्ये॑ । यत् । ई॒म् । सु॒ऽजा॒तम् । वृ॒ष॒णः॒ । वः॒ । अस्ति॑ ॥

सायणभाष्यम्

हे मरुतः वोयुष्माकं दात्राद्दानात् मानिरराम् वयंमानिर्गमाम यूयमस्मान् परित्यत्त्कान्येभ्योधनमादत्तेत्यर्थः हे रथ्योरथवन्तोमरुतः विभागे युष्मदीयस्य धनस्य दाने पश्चान्मादघ्म दघ्मतिर्गतिकर्मा वयं पश्चाद्भागिनोमाभूम यूयं प्रथममस्मभ्यमेव दत्तेति यावत् । स्पार्हे स्पृहणीये वसव्ये धनसमूहे यूयं नोस्मान् आभजतन भागिनः कुरुत । हे वृषणः वर्षितारोमरुतः वोयुष्माकं सुजातं शोभनजनं यद्वसव्ये वसव्यमस्ति तस्मिन् भागिनः कुरुतेति संबन्धः ईमितिपूरणः ॥ २१ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६