मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ५६, ऋक् २४

संहिता

अ॒स्मे वी॒रो म॑रुतः शु॒ष्म्य॑स्तु॒ जना॑नां॒ यो असु॑रो विध॒र्ता ।
अ॒पो येन॑ सुक्षि॒तये॒ तरे॒माध॒ स्वमोको॑ अ॒भि वः॑ स्याम ॥

पदपाठः

अ॒स्मे इति॑ । वी॒रः । म॒रु॒तः॒ । शु॒ष्मी । अ॒स्तु॒ । जना॑नाम् । यः । असु॑रः । वि॒ऽध॒र्ता ।
अ॒पः । येन॑ । सु॒ऽक्षि॒तये॑ । तरे॑म । अध॑ । स्वम् । ओकः॑ । अ॒भि । वः॒ । स्या॒म॒ ॥

सायणभाष्यम्

हे मरुतः अस्मे अस्माकं वीरः पुत्रः शुष्मी अस्तु बलवान् भवतु असुरः प्रज्ञावान् योजनानां शत्रूणां विधर्ता विधारकः येन पुत्रेण वयं सुक्षितये सुष्ठुनिवासाय अपः आप्नुवतः शत्रून् तरेम हिंसेम सपुत्रोबलवानस्त्विति पूर्वेणान्वयः । अधापिच वोयुष्मदीयावयं स्वमोकः आत्मीयं स्थानं अभिस्याम आतिष्ठेम ॥ २४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६