मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ५७, ऋक् २

संहिता

नि॒चे॒तारो॒ हि म॒रुतो॑ गृ॒णन्तं॑ प्रणे॒तारो॒ यज॑मानस्य॒ मन्म॑ ।
अ॒स्माक॑म॒द्य वि॒दथे॑षु ब॒र्हिरा वी॒तये॑ सदत पिप्रिया॒णाः ॥

पदपाठः

नि॒ऽचे॒तारः॑ । हि । म॒रुतः॑ । गृ॒णन्त॑म् । प्र॒ऽने॒तारः॑ । यज॑मानस्य । मन्म॑ ।
अ॒स्माक॑म् । अ॒द्य । वि॒दथे॑षु । ब॒र्हिः । आ । वी॒तये॑ । स॒द॒त॒ । पि॒प्रि॒या॒णाः ॥

सायणभाष्यम्

ये मरुतः गृणंतं स्तुवन्तं जनं निचेतारोहि मृगयमाणाभदन्ति खलु । अपिच यजमानस्य मन्म अभिमतं कामं प्रणेतारश्च भवन्ति । अपरो- र्धर्चः प्रत्यक्षकृतः हे मरुतोयूयं पिप्रियाणाः प्रीयमाणाः सन्तः अद्यास्मिन्दिवसे अस्माकं विदथेषु यज्ञेषु वीतये सोमस्य भक्षणाय बर्हिः बर्हिंषि कुशमये आसदत आसीदत उपविशत ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७