मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ५८, ऋक् २

संहिता

ज॒नूश्चि॑द्वो मरुतस्त्वे॒ष्ये॑ण॒ भीमा॑स॒स्तुवि॑मन्य॒वोऽया॑सः ।
प्र ये महो॑भि॒रोज॑सो॒त सन्ति॒ विश्वो॑ वो॒ याम॑न्भयते स्व॒र्दृक् ॥

पदपाठः

ज॒नूः । चि॒त् । वः॒ । म॒रु॒तः॒ । त्वे॒ष्ये॑ण । भीमा॑सः । तुवि॑ऽमन्यवः । अया॑सः ।
प्र । ये । महः॑ऽभिः । ओज॑सा । उ॒त । सन्ति॑ । विश्वः॑ । वः॒ । याम॑न् । भ॒य॒ते॒ । स्वः॒ऽदृक् ॥

सायणभाष्यम्

हे भीमासोभीमाः तुविमन्यवः प्रवृद्धमतयः अयासोगन्तारः इति त्रीणिसंबोधनानि एवंभूता हे मरुतोवोयुष्माकं जनूर्जन्म त्वेष्येण दीप्तेन रुद्रेण बभूवेति शेषः । उतापिच ये मरुतः महोभिस्तेजोभिः ओजसा बलेनच प्रसन्ति प्रभवन्ति तेषां वोयुष्माकं यामन् यामनि गमने विश्वः स्वर्दृक् सूर्यस्य द्रष्टा सर्वोजीवसमूहः यद्वा स्वः अन्तरिक्षं तत्पश्यतीति वृक्षः स्वर्दृक् सर्वदाउत्तिष्ठन्नित्यर्थः भयते बिभेति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८