मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ५९, ऋक् ५

संहिता

ओ षु घृ॑ष्विराधसो या॒तनान्धां॑सि पी॒तये॑ ।
इ॒मा वो॑ ह॒व्या म॑रुतो र॒रे हि कं॒ मो ष्व१॒॑न्यत्र॑ गन्तन ॥

पदपाठः

ओ इति॑ । सु । घृ॒ष्वि॒ऽरा॒ध॒सः॒ । या॒तन॑ । अन्धां॑सि । पी॒तये॑ ।
इ॒मा । वः॒ । ह॒व्या । म॒रु॒तः॒ । र॒रे । हि । क॒म् । मो इति॑ । सु । अ॒न्यत्र॑ । ग॒न्त॒न॒ ॥

सायणभाष्यम्

हे घृष्विराधसः परस्परं घृष्टानि सुसंहतानि राधांसि येषां ते हे मरुतः यूयमंधांसि सोमलक्षणानि हवींषि पीतये भक्षणार्थं सु सुष्टु आया- तन । आयात हि यस्मात् कारणात् हे मरुतोवोयुष्मभ्यं इमा इमानि हव्या हव्यानि हवींषि ररे अहं ददामि अतः कारणाद्यूयं अन्यत्र मोषुगन्तन मागच्छत कमितिपूरणः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९