मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ६०, ऋक् ३

संहिता

अयु॑क्त स॒प्त ह॒रितः॑ स॒धस्था॒द्या ईं॒ वह॑न्ति॒ सूर्यं॑ घृ॒ताची॑ः ।
धामा॑नि मित्रावरुणा यु॒वाकु॒ः सं यो यू॒थेव॒ जनि॑मानि॒ चष्टे॑ ॥

पदपाठः

अयु॑क्त । स॒प्त । ह॒रितः॑ । स॒धऽस्था॑त् । याः । ई॒म् । वह॑न्ति । सूर्य॑म् । घृ॒ताचीः॑ ।
धामा॑नि । मि॒त्रा॒व॒रु॒णा॒ । यु॒वाकुः॑ । सम् । यः । यू॒थाऽइ॑व । जनि॑मानि । चष्टे॑ ॥

सायणभाष्यम्

हे मित्रावरुण मित्रावरुणौ युवयोरगमनाय सधस्थात् सहस्थानादन्तरिक्षादन्तरिक्षे सप्त सर्पणस्वभावान् तत्संख्याकान्वा हरितोहरिद्व- र्णानश्वानयुक्त युक्तवान् रथे हरितआदित्यस्येतिहिनिरुक्तम् । या हरित ईमेनं सूर्यं देवं घृताचीर्घृताञ्चना उदकवत्यः उदकप्रदाइत्यर्थः तादृश्यः सत्योवहन्ति ताअयुक्त । अथोदितः सन् धामानि स्थानानि लोकान् जनिमानि जन्मानि जन्मभाजः प्राणिनइत्यर्थः तांश्च युवाकुः युवां कामयमानोयोदेवः सञ्चष्टे सम्यक्पश्यति यूथेव गोयूथानीव यूथपाः सयथा सर्वयूथं तदवान्तरगोयुक्तिं च सम्यक् पश्यति तद्वत् लोकान्प्राणिनश्च पश्यति ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः