मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ६१, ऋक् ५

संहिता

अमू॑रा॒ विश्वा॑ वृषणावि॒मा वां॒ न यासु॑ चि॒त्रं ददृ॑शे॒ न य॒क्षम् ।
द्रुहः॑ सचन्ते॒ अनृ॑ता॒ जना॑नां॒ न वां॑ नि॒ण्यान्य॒चिते॑ अभूवन् ॥

पदपाठः

अमू॑रा । विश्वा॑ । वृ॒ष॒णौ॒ । इ॒माः । वा॒म् । न । यासु॑ । चि॒त्रम् । ददृ॑शे । न । य॒क्षम् ।
द्रुहः॑ । स॒च॒न्ते॒ । अनृ॑ता । जना॑नाम् । न । वा॒म् । नि॒ण्यानि॑ । अ॒चिते॑ । अ॒भू॒व॒न् ॥

सायणभाष्यम्

हे अमूरा अमूढौ विश्वा व्याप्तौ हे वृषणौ वर्षितारौ वां युवाभ्यां इमा इमानि स्तुतिवचांसि क्रियन्ते यासु स्तुतिषु चित्रं आश्चर्यं न ददृशे न यक्षं न पूजा दृश्यते युवाभ्यां महिम्नोपि महत्वात् प्रयत्नेन क्रियमाणमपि स्तोत्रं न चमत्करोतीत्यर्थः । जनानां अनृता अस्तुत्यविष- याणिस्तोत्राणि द्रुहोद्रोग्धारः सचन्ते सेवन्ते न महान्तः वां युवाभ्यां क्रियमाणानि निण्यानि अन्तर्हितानि रहस्यान्यपि स्तोत्राणि अचिते अज्ञानाय न अभूवन्न भवन्ति ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः