मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ६५, ऋक् २

संहिता

ता हि दे॒वाना॒मसु॑रा॒ ताव॒र्या ता नः॑ क्षि॒तीः क॑रतमू॒र्जय॑न्तीः ।
अ॒श्याम॑ मित्रावरुणा व॒यं वां॒ द्यावा॑ च॒ यत्र॑ पी॒पय॒न्नहा॑ च ॥

पदपाठः

ता । हि । दे॒वाना॑म् । असु॑रा । तौ । अ॒र्या । ता । नः॒ । क्षि॒तीः । क॒र॒त॒म् । ऊ॒र्जय॑न्तीः ।
अ॒श्याम॑ । मि॒त्रा॒व॒रु॒णा॒ । व॒यम् । वा॒म् । द्यावा॑ । च॒ । यत्र॑ । पी॒पय॑न् । अहा॑ । च॒ ॥

सायणभाष्यम्

ता हि तौ खलु देवौ देवानां मध्ये असुरा बलवन्तौ अर्या अर्यौ तौ सर्वस्येश्वरौ ता तौ नोस्माकं क्षितीः पुत्रादिरूपाः प्रजा ऊर्जयन्तीः प्रवृद्धाः करतं कुरुतम् । हे मित्रावरुणा मित्रावरुणौ वयं वां युवां अश्याम व्याप्नुयाम यत्र यस्यां युवयोर्व्याप्तौ द्यावा द्यावापृथिव्यौ सर्वदा तयोः सहभावादयमर्थोलभ्यते अहा च एतद्रात्रेरुपलक्षणम् अहोरात्राणि च पीपयन् अस्मान्प्याययेयुः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः