मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ६६, ऋक् ४

संहिता

यद॒द्य सूर॒ उदि॒तेऽना॑गा मि॒त्रो अ॑र्य॒मा ।
सु॒वाति॑ सवि॒ता भगः॑ ॥

पदपाठः

यत् । अ॒द्य । सूरे॑ । उत्ऽइ॑ते । अना॑गाः । मि॒त्रः । अ॒र्य॒मा ।
सु॒वाति॑ । स॒वि॒ता । भगः॑ ॥

सायणभाष्यम्

यद्धनमस्माकमपेक्षितं तदद्यास्मिन्काले सूरे उदिते सति प्रातःसवने अनागाः पापहन्ता मित्रः अर्यमा सविता भगश्चैते प्रत्येकं सुवाति प्रेरयेत अथवा अनागामित्रोर्यमा दाता भवतु तदीप्सितं धनं भगोभजनीयः सविता सुवाति प्रेरयतु ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः