मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ६६, ऋक् ५

संहिता

सु॒प्रा॒वीर॑स्तु॒ स क्षय॒ः प्र नु याम॑न्त्सुदानवः ।
ये नो॒ अंहो॑ऽति॒पिप्र॑ति ॥

पदपाठः

सु॒प्र॒ऽअ॒वीः । अ॒स्तु॒ । सः । क्षयः॑ । प्र । नु । याम॑न् । सु॒ऽदा॒न॒वः॒ ।
ये । नः॒ । अंहः॑ । अ॒ति॒ऽपिप्र॑ति ॥

सायणभाष्यम्

सक्षयः सनिवासः सुपावीरस्तु सुष्ठु प्रकर्षेण रक्षितास्तु प्रशब्दआदरार्थः प्रकर्षेणा नु क्षिप्रं भवत्वितिशेषः कदेति उच्यते हे सुदानवः सुदानाः युष्माकं यामन यामनि गमनेसनि कीदृशानां गमने ये युयमागत्य नोस्माकं अंहः पापमतिपिप्रति अतिपारयथ तेषां गमनेइति ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः