मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ६६, ऋक् ६

संहिता

उ॒त स्व॒राजो॒ अदि॑ति॒रद॑ब्धस्य व्र॒तस्य॒ ये ।
म॒हो राजा॑न ईशते ॥

पदपाठः

उ॒त । स्व॒ऽराजः॑ । अदि॑तिः । अद॑ब्धस्य । व्र॒तस्य॑ । ये ।
म॒हः । राजा॑नः । ई॒श॒ते॒ ॥

सायणभाष्यम्

उतापिच ये मित्रादयस्त्रयः स्वराजः सर्वस्य स्वामिनः अदितिः तेषां माता च सन्ति अदब्धस्य अहिंसितस्य महोमहतोव्रतस्यास्य कर्मणोराजानः स्वामिनः ते ईशते समर्थाभवन्ति अभिमतंदातुमितिशेषः । अथवैवं योज्यम् ते मित्रादयोदितिश्च अदब्धस्य व्रतस्य स्वराजईश्वरास्ते महोमहतोस्मदभिमतधनस्य राजानः स्वामिनः सन्तईशते अस्मभ्यं तद्दातुम् ॥ ६ ॥ प्रतियामित्येषतृचश्वातुर्विंशिकेहनि प्रातःसवने मैत्रावरुणस्य पर्यासार्थः सूत्रितश्च-प्रतिवांसूरउदितेव्यन्तरिक्षमतिरदिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः