मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ६६, ऋक् १२

संहिता

तद्वो॑ अ॒द्य म॑नामहे सू॒क्तैः सूर॒ उदि॑ते ।
यदोह॑ते॒ वरु॑णो मि॒त्रो अ॑र्य॒मा यू॒यमृ॒तस्य॑ रथ्यः ॥

पदपाठः

तत् । वः॒ । अ॒द्य । म॒ना॒म॒हे॒ । सु॒ऽउ॒क्तैः । सूरे॑ । उत्ऽइ॑ते ।
यत् । ओह॑ते । वरु॑णः । मि॒त्रः । अ॒र्य॒मा । यू॒यम् । ऋ॒तस्य॑ । र॒थ्यः॒ ॥

सायणभाष्यम्

तत्प्रसिद्धमद्यास्मिन्यागकाले वोयुष्मान्मनामहे याचामहे कैः साधनैः सूक्तैः कस्मिन्काले सूरउदिते प्रातःकालइत्यर्थः यद्धनं हे ऋतस्योद- कस्य रथ्यः नेतारोयूयं वरुणादयः ओहते यूयमित्यजेन सामान् धिकरण्यादोहतइत्यत्र पुरुषव्यत्ययः ओहध्वइत्यर्थः तद्धनं मनाम- हइति ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०