मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ६६, ऋक् १७

संहिता

काव्ये॑भिरदा॒भ्या या॑तं वरुण द्यु॒मत् ।
मि॒त्रश्च॒ सोम॑पीतये ॥

पदपाठः

काव्ये॑भिः । अ॒दा॒भ्या॒ । आ । या॒त॒म् । व॒रु॒ण॒ । द्यु॒ऽमत् ।
मि॒त्रः । च॒ । सोम॑ऽपीतये ॥

सायणभाष्यम्

हे अदाभ्या अदंभनीयौ हे वरुण त्वं मित्रश्च द्युमत् द्युतिमन्तौ युवां काव्येभिरस्मत्कृतैः स्तोत्रैरायातम् किमर्थं सोमपीतये सोमपानाय ॥ १७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११