मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ६७, ऋक् १

संहिता

प्रति॑ वां॒ रथं॑ नृपती ज॒रध्यै॑ ह॒विष्म॑ता॒ मन॑सा य॒ज्ञिये॑न ।
यो वां॑ दू॒तो न धि॑ष्ण्या॒वजी॑ग॒रच्छा॑ सू॒नुर्न पि॒तरा॑ विवक्मि ॥

पदपाठः

प्रति॑ । वा॒म् । रथ॑म् । नृ॒प॒ती॒ इति॑ नृऽपती । ज॒रध्यै॑ । ह॒विष्म॑ता । मन॑सा । य॒ज्ञिये॑न ।
यः । वा॒म् । दू॒तः । न । धि॒ष्ण्यौ॒ । अजी॑गः । अच्छ॑ । सू॒नुः । न । पि॒तरा॑ । वि॒व॒क्मि॒ ॥

सायणभाष्यम्

हे नृपती नृणां ऋत्विग्यजमानानां स्वामिनावश्विनौ वां युवयोरथं जरध्यै जरा स्तुतिः स्तोतुं प्रतिगच्छामीतिशेषः केन साधनेनेति तदुच्यते हविष्मता हविर्युक्तेन यज्ञियेन यज्ञार्हेण मनसा स्तोत्रेण योरथोवां हे धिष्णयौ धिषणार्हौ धिषणा स्तुतिः वां युवां दूतोन दूतइव अजीगर्जागरयति प्रबोधयति अस्मान्प्रतिगन्तुं तं रथमच्छाविवक्मि आवच्मि प्रबोधनेदृष्टान्तः सूनुर्न पितरा पुत्रोमातापित- राविव अथवा अत्रयोरथोयुवामजीगः तेन रथेन गन्तुं बुध्यमानौ युवामच्छाविवक्मीति वा योज्यम् ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२