मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ६७, ऋक् २

संहिता

अशो॑च्य॒ग्निः स॑मिधा॒नो अ॒स्मे उपो॑ अदृश्र॒न्तम॑सश्चि॒दन्ता॑ः ।
अचे॑ति के॒तुरु॒षसः॑ पु॒रस्ता॑च्छ्रि॒ये दि॒वो दु॑हि॒तुर्जाय॑मानः ॥

पदपाठः

अशो॑चि । अ॒ग्निः । स॒म्ऽइ॒धा॒नः । अ॒स्मे इति॑ । उपो॒ इति॑ । अ॒दृ॒श्र॒न् । तम॑सः । चि॒त् । अन्ताः॑ ।
अचे॑ति । के॒तुः । उ॒षसः॑ । पु॒रस्ता॑त् । श्रि॒ये । दि॒वः । दु॒हि॒तुः । जाय॑मानः ॥

सायणभाष्यम्

अस्मे अस्माभिः समिधानः समिध्यमानः सन् अग्निः अशोचि दीप्यते तमसश्चित् तमसोपि अन्ताः पर्यन्ताः प्रदेशाः उपो अदृश्रन् उपदृ- श्यन्ते सर्वैः केतुः सर्वस्य प्रज्ञापकः सूर्योदिवोदुहितुरुषसः पुरस्तात्पूर्वस्यां दिशि श्रिये शोभायै जायमानः सन् अचेति ज्ञायते यस्मादेवं तस्मात् युवयोः आगमनसमयः अतआगच्छतमिति शेषः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२