मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ६७, ऋक् ३

संहिता

अ॒भि वां॑ नू॒नम॑श्विना॒ सुहो॑ता॒ स्तोमै॑ः सिषक्ति नासत्या विव॒क्वान् ।
पू॒र्वीभि॑र्यातं प॒थ्या॑भिर॒र्वाक्स्व॒र्विदा॒ वसु॑मता॒ रथे॑न ॥

पदपाठः

अ॒भि । वा॒म् । नू॒नम् । अ॒श्वि॒ना॒ । सुऽहो॑ता । स्तोमैः॑ । सि॒स॒क्ति॒ । ना॒स॒त्या॒ । वि॒व॒क्वान् ।
पू॒र्वीभिः॑ । या॒त॒म् । प॒थ्या॑भिः । अ॒र्वाक् । स्वः॒ऽविदा॑ । वसु॑ऽमता । रथे॑न ॥

सायणभाष्यम्

हे अश्विना अश्विनौ वां युवां सुहिता सुष्ठु देवानां स्तोता विवक्वान् स्तुतीनां वक्ताहं हे नासत्या सत्यभूतौ इदमश्विनावित्यत्रयोज्यं नूनमद्य स्तोमैः अभीसिषक्ति सेवते अतोर्वागस्मद्भिमुखं पूर्वीभिः पथ्याभिः पूर्वक्षुण्णैर्मार्गैः स्वर्विदा स्वर्गमुदकंवा जानता स्वरणवता वा वसुमता धनवता वा रथेन यातं गच्छतम् ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२