मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ६७, ऋक् ४

संहिता

अ॒वोर्वां॑ नू॒नम॑श्विना यु॒वाकु॑र्हु॒वे यद्वां॑ सु॒ते मा॑ध्वी वसू॒युः ।
आ वां॑ वहन्तु॒ स्थवि॑रासो॒ अश्वा॒ः पिबा॑थो अ॒स्मे सुषु॑ता॒ मधू॑नि ॥

पदपाठः

अ॒वोः । वा॒म् । नू॒नम् । अ॒श्वि॒ना॒ । यु॒वाकुः॑ । हु॒वे । यत् । वा॒म् । सु॒ते । मा॒ध्वी॒ इति॑ । व॒सु॒ऽयुः ।
आ । वा॒म् । व॒ह॒न्तु॒ । स्थवि॑रासः । अश्वाः॑ । पिबा॑थः । अ॒स्मे इति॑ । सुऽसु॑ता । मधू॑नि ॥

सायणभाष्यम्

हे अश्विना अश्विनौ अवोः रक्षित्रोः वां युवाभ्यां युवां कामयमानोहं नूनमद्य स्वभूतोभवामीति शेषः यद्यस्मात् हे माध्वी मधुरस्य सोमस्यार्हौ मधुविद्यासंबन्धिनौ वा वां युवां सुते अभिषुते सोमे वसूयुर्वसुकामोहुवे स्तौमि अतोवां स्वभूतः वां युवां आवहन्तु के स्थविरासः स्थूलाः प्रवृद्धा अश्वाएतयोरतिप्रवृद्धात्वात् शीघ्रगतेरपेक्षितत्वाच्च स्थविरैरेव भाव्यम् आगमनानन्तरं अस्मे अस्माभिः सुषुता सुष्ठु अभिषुतानि मधूनि मधुररसान् पिबाथः पिबतम् ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२