अ॒वि॒ष्टं धी॒ष्व॑श्विना न आ॒सु प्र॒जाव॒द्रेतो॒ अह्र॑यं नो अस्तु ।
आ वां॑ तो॒के तन॑ये॒ तूतु॑जानाः सु॒रत्ना॑सो दे॒ववी॑तिं गमेम ॥
अ॒वि॒ष्टम् । धी॒षु । अ॒श्वि॒ना॒ । नः॒ । आ॒सु । प्र॒जाऽव॑त् । रेतः॑ । अह्र॑यम् । नः॒ । अ॒स्तु॒ ।
आ । वा॒म् । तो॒के । तन॑ये । तूतु॑जानाः । सु॒ऽरत्ना॑सः । दे॒वऽवी॑तिम् । ग॒मे॒म॒ ॥
हे अश्विना अश्विनौ नोस्मान् आसु धीषु एषु कर्मसु अविष्टं रक्षतम् नोस्मभ्यं अह्रयं अक्षीणं प्रजावत पुत्राद्युपेतं पुत्रोत्पादनसमर्थं रेतोस्तु वां युवयोरनुग्रहात लब्धे तोके पुत्रे तनये तत्पुत्रादौच तूतुजानाः अभिमतं धनं प्रयच्छन्तः सूरत्नासः शोभनधनाश्च सन्तोदेववीतिं देवानां वीतिः प्राप्तिर्यस्मिन तादृशं यज्ञं आगमेम आगच्छेम ॥ ६ ॥