मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ६८, ऋक् ४

संहिता

अ॒यं ह॒ यद्वां॑ देव॒या उ॒ अद्रि॑रू॒र्ध्वो विव॑क्ति सोम॒सुद्यु॒वभ्या॑म् ।
आ व॒ल्गू विप्रो॑ ववृतीत ह॒व्यैः ॥

पदपाठः

अ॒यम् । ह॒ । यत् । वा॒म् । दे॒व॒ऽयाः । ऊं॒ इति॑ । अद्रिः॑ । ऊ॒र्ध्वः । विव॑क्ति । सो॒म॒ऽसुत् । यु॒वऽभ्या॑म् ।
आ । व॒ल्गू इति॑ । विप्रः॑ । व॒वृ॒ती॒त॒ । ह॒व्यैः ॥

सायणभाष्यम्

यद्यदा वां युवां प्रति देवयाः देवौ युवां कामयमानः ह उ इति पूरणौ अयमद्रिरभिषवग्रावा सोमसुत् सोममभिषुण्वन् युवभ्यां युवाभ्या- मर्थाय अभिषुण्वन्निति संबन्धः एवं कुर्वन् ऊर्ध्वउन्नतः सन् विवक्ति उच्चैः शब्दयति तदानीं वल्गू सुन्दरौ युवां विप्रोमेधावी यजमानो- हव्यैर्हविर्भिः आववृतीत आवर्तयति ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४