मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ६८, ऋक् ८

संहिता

वृका॑य चि॒ज्जस॑मानाय शक्तमु॒त श्रु॑तं श॒यवे॑ हू॒यमा॑ना ।
याव॒घ्न्यामपि॑न्वतम॒पो न स्त॒र्यं॑ चिच्छ॒क्त्य॑श्विना॒ शची॑भिः ॥

पदपाठः

वृका॑य । चि॒त् । जस॑मानाय । श॒क्त॒म् । उ॒त । श्रु॒त॒म् । श॒यवे॑ । हू॒यमा॑ना ।
यौ । अ॒घ्न्याम् । अपि॑न्वतम् । अ॒पः । न । स्त॒र्य॑म् । चि॒त् । श॒क्ती । अ॒श्वि॒ना॒ । शची॑भिः ॥

सायणभाष्यम्

वृकाय धनादात्रे अभिलषतइत्यर्थः चिदितिपूरणः अथवा परेभ्योधनानि प्रयच्छते यद्वा वृकाय वृकवद्धिंसकाय एतन्नामकाय जसमानाय कर्मभिरुपक्षीयमाणाय ऋषये शक्तं अभिमतं धनं अदत्तं शकेर्दानार्थस्य लुङ्येतद्रूपं अडभावश्छान्दसः । उतापिच शयवे एतन्नामकाय ऋषये हूयमाना हूयमानौ युवां श्रुतं अशृणुतम् यौ युवांअघ्न्यां गां अपिन्वतं अपूरयतं क्षीरेण अपोन अद्भिरिव नदीं तां यथोदकेन पूरयतस्तद्वत् कीदृशीमघ्न्यां स्तर्थं चित् स्तरीमपि निवृत्तप्रसवां वृद्धामपि शक्ती शक्त्या सामर्थ्येन दोहनलक्षणेन युक्‍तां कृत्वा शची- भिर्युष्मदीयैः कर्मभिः हॆ अश्विनाविति । शयवॆचिन्नासत्याशचीभिर्जसुरयॆस्तर्यंपिप्यथुर्गामित्यादित्द्युक्तम् ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५