मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ७१, ऋक् १

संहिता

अप॒ स्वसु॑रु॒षसो॒ नग्जि॑हीते रि॒णक्ति॑ कृ॒ष्णीर॑रु॒षाय॒ पन्था॑म् ।
अश्वा॑मघा॒ गोम॑घा वां हुवेम॒ दिवा॒ नक्तं॒ शरु॑म॒स्मद्यु॑योतम् ॥

पदपाठः

अप॑ । स्वसुः॑ । उ॒षसः॑ । नक् । जि॒ही॒ते॒ । रि॒णक्ति॑ । कृ॒ष्णीः । अ॒रु॒षाय॑ । पन्था॑म् ।
अश्व॑ऽमघा । गोऽम॑घा । वा॒म् । हु॒वे॒म॒ । दिवा॑ । नक्त॑म् । शरु॑म् । अ॒स्मत् । यु॒यो॒त॒म् ॥

सायणभाष्यम्

स्वसुः स्वसृस्थानीयायाउषसः सकाशात् नक् नक्तं रात्रिरपि जिहीते अपगच्छति तस्याः अवकाशं दत्वा स्वयमपगताइत्यर्थः । स्वसा स्वस्रे ज्यायस्यै योनिमारैगित्युक्तम् । कृष्णीः कृष्णवर्णा रात्रिररुषाय आरोचमानायाह्ने सूर्याय वा पन्थां पन्थानं मार्गं रिणक्ति रेचयति यस्मादेवं तस्माद्युवयोरागमनसमयत्वात् हे अश्वामघा अश्वधनौ हे गोमघा गोधनौ उभयोः प्रदातारावित्यर्थः ईदृशौ वां युवां हुवेम स्तुमः आह्वयामः दिवानक्तं सर्वदा शरुं हिंसकमस्मदस्मत्तोयुयोतं पृथक्कुरुतम् ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८