मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ७४, ऋक् १

संहिता

इ॒मा उ॑ वां॒ दिवि॑ष्टय उ॒स्रा ह॑वन्ते अश्विना ।
अ॒यं वा॑म॒ह्वेऽव॑से शचीवसू॒ विशं॑विशं॒ हि गच्छ॑थः ॥

पदपाठः

इ॒माः । ऊं॒ इति॑ । वा॒म् । दिवि॑ष्टयः । उ॒स्रा । ह॒व॒न्ते॒ । अ॒श्वि॒ना॒ ।
अ॒यम् । वा॒म् । अ॒ह्वे॒ । अव॑से । श॒ची॒व॒सू॒ इति॑ शचीऽवसू । विश॑म्ऽविशम् । हि । गच्छ॑थः ॥

सायणभाष्यम्

इमा दिविष्टयोदिवमिच्छन्त्यः प्रजा ऋत्विजोपि उइतिचार्थे हे अश्विना उस्रा वासकौ वां हवन्ते आह्वयन्ति अयं वसिष्ठोपि हे शचीवसू कर्मधनौ वां युवां अवसेस्मद्रक्षणाय युवयोस्तर्पणायवा अह्वे आह्वयामि किमर्थमेवं प्रजाअप्यहमपीत्यादरोक्तिरिति तत्राह हि यस्मात् कारणात् युवां विशंविशं प्रजांप्रजां प्रति गच्छथः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१