मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ७४, ऋक् ४

संहिता

अश्वा॑सो॒ ये वा॒मुप॑ दा॒शुषो॑ गृ॒हं यु॒वां दीय॑न्ति॒ बिभ्र॑तः ।
म॒क्षू॒युभि॑र्नरा॒ हये॑भिरश्वि॒ना दे॑वा यातमस्म॒यू ॥

पदपाठः

अश्वा॑सः । ये । वा॒म् । उप॑ । दा॒शुषः॑ । गृ॒हम् । यु॒वाम् । दीय॑न्ति । बिभ्र॑तः ।
म॒क्षु॒युऽभिः॑ । न॒रा॒ । हये॑भिः । अ॒श्वि॒ना॒ । आ । दे॒वा॒ । या॒त॒म् । अ॒स्म॒यू इत्य॑स्म॒ऽयू ॥

सायणभाष्यम्

ये अश्वासोश्वाः वां युवयोः स्वभूता दाशुषोहविर्दातुर्गृहं युवां बिभ्रतोधारयन्तोदीयन्ति गमयन्तीत्यर्थः मक्षूयुभिः शीघ्रगन्तृभिर्हयेभिः हयैरश्वैः हे नरा नेतारौ अश्विना अश्विनौ देवा देवौ अस्मयू अस्मान्कामयमानौ आयातं अस्मद्यज्ञमागच्छतम् ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१